|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.101. अध्यायः 101
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति योधलक्षणादिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-101-0x(5603)(68721)
किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत।
किंसन्नाहाः कथंशस्त्रा जनाः स्युः संयुगे नृपाः॥ 12-101-1(68722)
भीष्म उवाच। 12-101-2x(5604)
यथाचरितमेवात्र शस्त्रं पत्रं विधीयते।
आचाराद्धीह पुरुषस्तथा कर्मसु वर्तते॥ 12-101-2(68723)
गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः।
अभीरवः सुबलिनस्तद्वलं सर्वपारगम्॥ 12-101-3(68724)
सर्वशस्त्रेषु कुशलाः सत्ववन्तो ह्युशीनराः।
प्राच्या मातङ्गयुद्धेषु कुशलाः कूटयोधिनः॥ 12-101-4(68725)
तथा यवनकाम्भोजा मधुरामभितश्च ये।
एतेऽश्वयुद्धकुशला दाक्षिणात्याऽसिचर्मिणः।
सर्वत्र शूरा जायन्ते महासत्वा महाबलाः॥ 12-101-5(68726)
आवन्तिका महाशूराश्चतुरङ्गे च मालवाः।
एकोऽपि हि सहस्रस्य तिष्ठत्यभिमुखो रणे॥ 12-101-6(68727)
प्रायो देशाः समुद्दिष्टा लक्षणानि तु मे शृणु॥ 12-101-7(68728)
सिंहशार्दूलवाङ्गेत्राः सिंहशार्दूलगामिनः।
पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः। 12-101-8(68729)
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथा परे।
प्रमाथिनश्च मन्द्राश्च क्रोधनाः किङ्किणीस्वनाः॥ 12-101-9(68730)
मेघस्वनाः क्रूरमुखाः केचिच्च कलनिस्वनाः।
जिह्मनासाग्रजिह्वाश्च दूरगा दूरपातिनः॥ 12-101-10(68731)
बिडालकुब्जाः स्तब्धाक्षास्तनुकेशास्तनुत्वचः।
शीघ्राश्चपलचित्ताश्च ते भवन्ति दुरासदाः॥ 12-101-11(68732)
गौरा निमीलिताः केचिन्मृदुप्रकृतयस्तथा।
तुरङ्गगतिनिर्घोषास्ते नराः पारयिष्णवः॥ 12-101-12(68733)
सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः।
प्रवादितेषु कुप्यन्ति हृष्यन्ति कलद्देषु च॥ 12-101-13(68734)
गम्भीराक्षा निसृष्टाक्षाः पिङ्गाक्षा भ्रुकुटीमुखाः।
नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः॥ 12-101-14(68735)
जिह्नाक्षाः प्रललाटाश्च निर्मांसहनवोऽव्यथाः।
वक्रबाह्वङ्गुलीसक्थाः कृशा धमनिसंतताः॥ 12-101-15(68736)
प्रविशन्ति च वेगेन सांपराये ह्युपस्थिते।
वारणा इव संमत्तास्ते भवन्ति दुरासदाः॥ 12-101-16(68737)
दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः।
उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः॥ 12-101-17(68738)
उद्बन्धा इव सुग्रीवा विनताविहगा इव।
पिण्डशीर्षातिवक्राश्च पृषदंशमुखास्तथा॥ 12-101-18(68739)
अग्रस्वरा मन्युमन्तो युद्धेष्वारावसारिणः।
अधर्मज्ञाऽवलिप्ताश्च घोरा रौद्रप्रदर्शनाः॥ 12-101-19(68740)
त्यक्तात्मानः सर्व एते उदग्रा ह्यनिवर्तिनः।
पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते॥ 12-101-20(68741)
अधार्मिका भिन्नवृत्ताः सान्त्वेनैषां पराभवः।
एवमेव प्रदूष्यन्ते राज्ञोऽप्येते ह्यभीक्ष्णशः॥ ॥ 12-101-21(68742)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकाधिकशततमोऽध्यायः॥ 101॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-101-2 आचरितं कुलदेशाचारागतम्। पत्रं वाहनम्॥ 12-101-5 दाक्षिणात्या असिचर्मिण इति च्छेदः॥ 12-101-8 कुलिङ्गाक्षाः कुलिङ्गः सर्पः॥ 12-101-10 जिह्मनाः सानुजङ्घाश्चेति थ. पाठः॥ 12-101-15 प्रललाटाः उन्नतकपालाः॥ 12-101-17 दीप्तः पिङ्गलः। पिण्डिकाः जानुनोरधः पश्चाद्भागाः॥ 12-101-18 सुग्रीवा वासुदेवाश्वाः। विनताविहगाः गण्डाः। पिण़्डशीर्षाः वृत्तशिरसः। अतिवक्राः विस्तीर्णमुखाः। संधिरार्षः समासो वा॥ 12-101-21 एवमेव प्रकुष्यन्ति इति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|